________________
द्वन्द्वसमासप्रकरणम्
भट्टिकाव्ये--- V. 12.
आमिक्षीय दधिक्षीरं पुरोडाश्यं तथौषधम् ।
हवियङ्गवीनं च नाप्युपनन्ति राक्षसाः ।। 1042 ।। दधि च क्षीरं च दधिक्षीरम् । वैभाषिको व्यञ्जनद्वन्द्वः । भट्टिकाव्ये -XIV. 89.
चक्काणाशङ्कितो योद्धमुत्सेहे च महारथः ।
नियेमिरे च योद्धारश्चकृपे चाश्वकुञ्जरम् ।। 1048 ॥ अश्वकुञ्जरम् । पशुद्वन्द्वैकवद्भावः । भट्टिकाव्ये-~XVII. 8.
अस्तुवन्वन्दिनः शब्दानन्योन्य चोदभावयन् ।
अनदन सिंहनादांश्च प्रादेकत हयद्विपम् ॥ 1044 ।। हयद्विपम् । पशुद्वन्द्वस्य विभाषैकवद्भावः । अस्मिन्नेव ग्रन्थे श्लो० 475. वाजिकुञ्जरम् । पूर्ववत् । भट्टिकाव्ये-VI. 76.
सर्वत्र दयिताधीन मुव्यक्तं रामणीयकम् ।
येन जातं प्रियापाये कद्वदं हंसकोकिलम् ॥ 1045 ।। हसाश्च कोकिलाश्च हंसकोकिलम् । शकुनिद्वन्द्वः ।
९१७ । विप्रतिषिद्धं चानधिकरणवाचि । ( २. ४. १३) विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकद्वा स्यात् । शीतोष्णम् शीतोष्णे। भट्टिकाव्ये-VII. 10.
कुर्याद्योगिनमप्येष स्फूर्जावान्परिमोहिणम् ।
त्यागिनं सुखदुःखस्य परिक्षेप्यम्भसामृतुः ॥ 1046 ।। सुखदुःखस्य सुखदुःखयोः । विकल्पादेकवद्भावः ।
39