________________
पाणिनिसूत्रव्याख्या
माये--XIX. 75.
निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।
पाणिनीयमिवालोकि धारस्तत्समराजिरम् ।। 97411 हदिति निपातः ।
८८९ । उप्रभृतिभ्यः कः । (५. ४. १५१) नित्यकबाश्रयणम् । एकवचनोत्तरपदम् । उरः प्रभृतिः-५५. ६०. पुमान् । अनडान् । पयः । नौः । लक्ष्मीः । इत्येकवचनान्तानि पठ्यन्ते । द्विवचनबहुस्चनान्तेभ्यस्तु ' शेषाद्विभाषा' (सू. 891 ) इति विकरपेन का । द्विपुमान् । द्विपुंस्कः ।
(ग. मू.) अर्थानमः । ( 149.) अनर्थकम् ।
धुवंशे-~-I. 18.
ब्यूढोरस्को वृषस्कन्धः सालपांशुमहाभुजः ।
आत्मकर्मक्षम देहं क्षात्रो धर्म इवाश्रितः ।। 975 || न्यूढं विपुलमुरो यस्य स व्यूढोरस्कः । भट्टिकाव्ये-~-V. 49
नेनादुषयदाम मृगेण मृगलोचना ।
मैथिली विपुलोरस्कं प्रावुर्घ गाजिनम् ॥ 976 ॥ विपुलनुरो यस्य सः विपुलोरस्कः । तम् । अस्मिन्नेव ग्रन्थे श्लो० 72. मुदितयुवमनस्काः ।
अस्मिन्नेव ग्रन्थे श्लो० 934. सती परिमललक्ष्मीः यस्याः सा सत्परिमललक्ष्मीका । अपुंस्का । एकवचनान्तयोलक्ष्मीशब्दपुंशब्दयोः उरः प्रभृतिषु पाठात् कम् । आपीतमधुका । 'शेषाद्विभाषा' (सू. 891) इति कप् इति व्याख्यायां चर्तते । उर:प्रभृतिषु मधुशब्द: पठितः ।