________________
बहुत्रीहि समासप्रकरणम्
२८१
अस्मिन्नेव पन्थे लो० 910. शोभना दन्ता यासां ताः सुदत्यः स्त्रियः । अत्र विधानाभावात् दनादेशश्चिन्त्य इति केचित् । अग्रान्तेत्यादिना चकारात्सिद्धिरिति केचित् । सुदत्यादय स्त्रीषु योगरुडाः । ' स्त्रियां संज्ञायां ' ( सू. 881 ) इति दवादेशात्साधव इत्यपरे ! ना एवं जनाः सुदतीजनाः । ' संज्ञापूरण्योश्च' (सु. 839 ) इति न पुंवद्भावः ।
८८४ | ककुदस्यावस्थायां लोपः । ( ५, ४. १४६ )
व्यजातककुत् । पूर्णककुत् ।
८८५ | त्रिककुत्पर्वते । ( ५, ४. १४७ ) त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञेषा पर्वतविशेषस्य ।
८८६ | उद्विभ्यां काकुदस्य । (५, ४. १४८ )
लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु !
८८७ । पूर्णाद्विभाषा । ( ५. ४. १४९ )
पूर्णकाकुत् । पूर्णकाकुदः ।
८८८ । सुदुर्हृदौ मित्रामित्रयोः । ( ५. ४. १५० )
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् | दुर्हृदमित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ।
अस्मिन्नेव ग्रन्थे श्लो० 266. शोभनं हृदयं येषां तान् सुहृदो मित्राणि ।
भट्टिकाव्ये - VIII. 14.
सुहत् ।
36
अव्यमुपतिष्ठस्व वीर वायोरहं सुहृत् । रविर्वितपतेत्यर्थमाश्वस्य मयि गम्यताम् || 978