________________
२८०
पाणिनिसूत्रव्याख्या
-V.
5.
अस्मिन्नेव ग्रन्थे श्लो० 20. शोभनी पादौ यस्याः सा सुपात् । समासान्तलोपः । 'पादोऽन्यतरस्यां' (सू. 457 ) इति विकल्पादनीकारः । भट्टिकाव्ये-IV. 3.
अवाक्छिरसमुत्पादं कृतान्तेनापि दुर्दमम् ।
भक्ता भुजौ विराधाख्यं तं तौ भुवि निचख्नतुः ।। 969 !! उत्पादमूर्खचरणम् । संख्यासुपूर्वादन्यत्र न लोपः ।
८८० । वयसि दन्तस्य दत् । ( ५. ४. १४१) संख्यासुपूर्वस्य दन्तस्य दतृ इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षट् दन्ता भस्य षोडन् । सुदन् सुदती । वयसि किम् ? द्विदन्तः करी । सुदन्तो नटः ।
अस्मिन्नेव ग्रन्थे श्लो० 14. शोभना दन्ता यस्याः सा सुदती । दनादेशे 'उगितश्च । (सू. 455 ) इति डीम् ।
८८३ । अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च । (५. ४. १४५) एभ्यो दन्तस्य दत वा । कुड्मलाग्रदन् । कुड्मलापदन्तः । माघे-II. 7.
द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः ।
स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ।। 970 ॥ कुन्दकुड्मलागाणीव दन्ता यस्य तस्य कुन्दकुड्मलाग्रदतः। अग्रान्तपूर्वपद बहुव्रीहिः । समासान्तो वैभाषिको दनादेशः । भट्टिकाव्ये-V. 61.
गते तस्मिजलशुचिः शुद्धदरावणः शिखी ।
जञ्जपूकोऽक्षमालावान् धारयो, मृदलाबुनः ॥ 971 ॥ शुद्धदन शुभ्रदन्तः । दत्रादेशः । भट्टिकाव्ये-IV. 18.
उन्नसं दधती वक्तं शुद्धदल्लोलकुण्डलम् ।
कुर्वाणा पश्यतः शंयून् स्रग्विणी सुहसानना ॥ 972 ।। शुद्धा दन्ता यस्य तत् शुद्धदत् । दनादेशः ।