________________
बहुव्रीहिसमासप्रकरणम्
नयत्ययुग्मच्छ्दगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥ 966 ||
अयुग्मच्छदस्य गन्ध इव गन्धो यस्यासावयुग्मच्छदगन्धिः । ' सप्तम्युपमान ' इत्यादिना बहुव्रीहिरुत्तरपदलोपश्च । अनेन इत्वम् ।
I
८७७ । पादस्य लोपोsहस्त्यादिभ्यः (५ ४
हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । व्याघ्रस्येव पादावस्य व्याघ्रपात् । हस्तिपाद: कुसूलपाद: । अत्र न । हस्त्यादि : - ५ ५८.
नैषधे - III. 68.
८७८ | कुम्भपदीषु च । ( ५. ४. १३९ )
कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् । कुम्भपद्यादि : --
५. ५९.
अवाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि विद्यते यः ।
यत्रान्धकारः किल चेतसोऽपि
१३८ )
जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥ 967 ॥
एकः पादो यस्यामित्येकपदी । एकपादसंचारयोग्यो मार्गः ।
२७९
८७९ । संख्यासुपूर्वस्य । ( ५. ४. १४० )
पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् । ' पादोऽन्यतरस्याम् ' ( सू. 457 ) इति स्त्रियां विकल्पानीकारः ।
रघुवंशे — XV. 96.
अस्मिन्नेव ग्रन्थे लो० 923. सहस्रं पादा रश्मयोऽछ्रयश्च यस्य स सहस्रपात् सूर्यः ।
तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि ।
राघवः शिथिलं तस्थौ भुवि धर्म त्रिपादिव || 968 ॥
त्रयः पादा यस्यासौ त्रिपात् । अकारलोपः समासान्तः ।