SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २७८ इत्वम् । पाणिनिसूत्रव्याख्या अस्मिन्नेव अन्ये श्लो० 554 सदोद्वारेण सुगन्धीनां हृथगन्धानाम् | कवयः । भट्टिकाव्ये – II. 10. क्षतां भांसि नवोत्पलानि रुतानि चाश्रौषत षट्पदानाम् । आनायि वान् गन्धवहः सुगन्धः तेनारविन्दव्यतिषङ्गवांश्च ॥ 964 ॥ अरविन्दानां व्यतिषङ्गः तद्वान् । अत एव सुगन्धः । गन्धस्येत्वे तदेकान्त ग्रहणादिहेत्वाभावः । सुगन्धिरिति पाठोऽपि कविप्रयोगबाहुल्या दिष्यते । माघे - V. 46. . कण्डूयतः कटभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य । स्थूलेन्द्रनीलश कलावलिकोमलेन कण्ठे गुणत्वमलिनां वलयेन भेजे || 965 || करिणो मदेन सुगन्धि शोभनगन्धम् । गन्धस्येत्वे तदेकान्तग्रहणं नाद्रियन्ते ८७५ | अल्पाख्यायाम् । ( ५.४.१३६ ) सूपस्य गन्धो लेशो यस्मिंस्तत् सूपगन्धि भोजनम् । ८७६ । उपमानाच्च । ( ५. ४. १३७ ) पद्मस्येव गन्धोऽस्य पद्मगन्धिः । अस्मिन्नेव ग्रन्थे श्लो० 131. चूतस्येव गन्धो येषां ते चूतगन्धयः । किरातार्जुनीये - I. 16. अनेकराजन्यरथाश्वसंकुलं तदीयमास्थाननिकेतनाजिरम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy