________________
গীতিক্ষা
२७७ अस्मिन्नेव ग्रन्थे श्लो० 892. युवतिर्जाया यस्य स युवजानिः । अनेन निङ् । बलिलोपः । ' स्त्रियाः पुंव' (सृ. 831) इति पुंवद्धावः ।
८७४ । गन्धस्येदुत्पूतिसुसुरभिभ्यः । (५. ४. १३५)
एभ्यो गन्धस्य इकारोऽन्तादेशः स्यात् । उद्गन्धिः । यूनिगन्धिः । सुगन्धिः । सुरभिगन्धिः ।
वा० । गन्धस्येत्त्वे तदेकान्तग्रहणम् । ( 3868.) एकान्त एकदेश इवाविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह । शोभना गन्धा गन्धद्रव्याणि यस्य स सुगन्ध आपणिकः । .
अस्मिन्नेव अन्थे श्लो० 640. वधुकुसमविपर्देनोद्गन्धिषु उद्भूतगन्धेषु । इत्त्वम् । रघुवंशे--XVI. 47.
वनेषु सायन्तनमालिकानां
विज़म्भणोगन्धिषु कुड्मलेषु प्रत्येकनिक्षिप्तपदः सशब्द
संख्यामिवैषां भ्रमरश्वकार ॥ 962 ॥ विजृम्भणेन विकासेनोद्गन्धिषु उत्कटसौरभेषु । समासान्त इकारः ।
अस्मिन्नेव ग्रन्थे श्लो० 668. शोभनो गन्धो यस्य तत् सुगन्धि । इकारः समासान्तः।
__ अस्मिन्नेव ग्रन्थे श्लो० 870. सुरभिर्मनोहरो गन्धः सुरभिगन्धः । न बहुबीहिः । मत इत्वं न । रघुवंशे-IV. 45.
स सैन्यपरिभोगेन गजदानसुगन्धिना ।
कावेरी सरितां पत्युः शङ्कनीयामिवाकरोत् ॥ 963 ॥ राजदानसुगन्धिना । इत्वम् । नैसर्गिकगन्धविक्षायामेवेकारादेशः : निरङ्कुशाः कक्यः ।