________________
पाणिनिसूनव्याख्या
गाण्डीवं धनुर्यस्य तस्य गाण्डीवधन्वनोऽर्जुनस्य । अनादेशः । चम्पूरामायणे-I. 12.
ग---तदनु हविराहरणाय धरण्यां कृतावतरणाः सर्वे गीर्वाणगणाः शतमखप्रमुखाश्चतुर्मुखाय दशमुखप्रतापग्रीष्मोप्मसंप्लोषणमावेद्य तेन सह शरणमिति शाङ्ग धन्वानं मन्वाना नानाविधप्रस्तुतस्तुतयः क्षीराम्बुराशिमासेदुः ॥ 958 ।।
शा. धनुर्यस्य तं शार्ङ्गधन्वानम् । चम्पूरामायणे-- I. 107.
जनकः स्वकनीयांसमाजुहाव कुशध्वजम् ।
हत्या युधि सुधन्वानं सांकाश्रो स्थापित पुरे 1 959 ।। सुधन्वा नाय कश्चित् । ।
८७२ । जायाया निङ । (५. ४. १३४)
जायान्तस्य बहुव्रीहेर्निडादेशः स्यात् । चम्पूरामायणे-III, 15.
ग-ततस्तेन जानकीजानिरिति जानीहि जनमिमं ममानुजमतिमनुजबलमबालमबलावियुक्तं युक्तमाश्रयितुं तवेति प्रत्याख्याता रामेण सौमित्रिमुपेत्य यथामनीषितमभाषत ।। 960 ॥
जानकी जाया यस्य स जानकीजानिः।
चम्पूभारते---IV. 47. उत्थायाथ क्षितीन्द्रः क्षणमपि धरणौ स्थातुमस्यां न युक्तं
प्रत्यर्थिस्वीकृतायामिति सह सहजैः सत्यसन्धः सजानिः । पाणौ क्षतुर्निधाय प्रसुवमतितरामन्तरुत्तप्यमानां
पद्धयां प्रापद्वनानि व्यथितहृदमुचत्पौरलोकस्तु हाभ्याम् ।। 961 || जायया सह घर्तत इति सजानिः ।