________________
बहुव्रीहिसमासप्रकरणम् धनुषा सह वर्तत इति सधनुः । तस्य सधनुषः पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 232. अघिज्यं धनुर्यस्याधिज्यधन्वा । अनादेशः । अनघराघवे-II. 68. ग.-भगवन्कौशिक पश्य पुरस्तादायें धृतधनुषि ।। 954 || अनङ् न ।
८७१ । वा संज्ञायाम् । (५. ४. १३३)
शतधन्वा शतधनुः ।
कुमारसंभवे-~-II. 64.
अथ स ललितयोषिद्भलताचारुशृङ्गं
रतिवलयपदाके चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ 955 ।। पुष्पं धनुर्यस्य सः पुष्पधन्वा । कामः । 'पुष्पधन्वा रतिपतिः' I, i. 26. इत्यमरः । अनादेशः । माघे-IX. 41.
अवकाशमाशु हृदये मुशां
गमिते विकासमुदयाच्छशिनः । कुमुदे च पुष्पधनुषो धनुष
श्वलितः शिलीमुखगणोऽलभत ॥ 956 ॥ पुष्पं धनुर्यस्य स पुष्पधनुः । तस्य पुष्पधनुषः । अनङ् न ।
अस्मिन्नेव ग्रन्थे श्लो० 950. क्षेम धनुर्यस्य तं क्षेमधन्वानम् । तन्नामानं पुत्रम् । अनडादेशः । किरातार्जुनीये-XV. 46.
विफलीकृतयनस्य क्षतबाणस्य शम्भुना । गाण्डीपधन्वनः खेभ्यो निश्वकाम हुताशनः ॥-967 ॥