________________
१७४
पाणिनिसूत्रव्याख्या
८७० । धनुषश्च । (५. ४. १३२) धनुरन्तस्य बहुव्रीहेरनादेशः स्यात् । रघुवंशे-XVIII. 9.
स क्षेमधन्वानममोघधन्या
पुलं प्रजाक्षेमविधानदक्षम् । क्ष्मां लम्भयित्वा क्षमयोपपन्नं
बने तपः क्षान्ततरश्वचार ।। 950 ।। अमोघ धनुर्यस्य सोऽमोघधन्वा । अनडादेशः । कुमारसंभवे-IV. 23.
ऋजुतां नयतः स्मरामि ते
शरमुत्सङ्गनिषण्णधन्वनः। मधुना सह सस्मितां कथा
नयनोपान्तविलोकितं च तत् ॥ 951 ।। उत्सनिषण्णमङ्कगतं धनुर्यस्य तस्योत्सननिषण्णधन्वनः । भट्टिकाव्ये--I. 24.
आशीर्भिरभ्यर्च्य ततः क्षितीन्द्र
प्रीतः प्रतस्थे मुनिराश्रमाय । त पृष्ठतः प्रष्ठमियाय नम्रो
हिंस्रेषु दीप्रास्त्रधनुः कुमारः ।। 952 ॥ हिंस्रेषु दीप्रावधनुः । अत्रानङ् न भवति । समासान्तविधिरनित्यः । चम्पूभारते-IV. 48.
कान्तारवमनि मृगाः पुरतो निषण्णाः
शान्ताकृतेः सधनुषोऽपि निषङ्गिणोऽपि । उत्थाय तस्य पटुमर्मरचारुचीरं
रोमन्थलोलचुबुकेन मुखेन जिघ्रः ॥_958 ॥