________________
बहुव्रीहिसभासप्रकरणम्
८६५ । दक्षिणेर्मा लुब्धयोगे । (५. ४. १२६) दक्षिणे ईमैं व्रणं यस्य स दक्षिणेर्मा मृगः । व्याधेन कृतत्रण इत्यर्थः । 'दक्षिणारुलब्धयोगादक्षिणेर्मा कुरङ्गकः' II. x. 24. इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 924. दक्षिणेर्मा ।
८६६ । इच्कर्मव्यतिहारे । (५. ४. १२७) कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात् समासान्तः । केशाकेशि । मुसलामुसलि । ' तत्र तेनेदम् ' (सू. 846) इति समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 915. केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि । गदागदि । तोमरातोमरि । बाहूबाहवि ।
८६७ । द्विदण्ड्यादिभ्यश्च । (५. ४. १२८) द्वौ दण्डौ यस्मिन् प्रहरणे तत् द्विदण्डि प्रहरणम् । द्विमुसलि। द्विदण्ड्यादिः ५. ७.
८६८ । प्रसंभ्यां जानुनोर्जुः । (५. ४. १२९)
आभ्यां परयोर्जानुशब्दयोः जुरादेशः स्याबहुप्रीहौ । प्रगते जानुनी यस्य स प्रजुः । संजुः । 'प्रजुः प्रगतजानुकः । संजुः संहतजानुके ' II. vi. 47. इत्यमरः ।
८६९ । ऊर्ध्वाद्विभाषा । (५. ४. १३०) ऊर्ध्वः । ऊर्ध्वजानुः । 'ऊर्ध्वज़ुरूर्वजानुः स्यात् ' II. vi. 47. इत्यमरः । माघे-XI. 11.
परिशिथिलितकर्णग्रीवमामीलिताक्षः
क्षणमयमनुभूय स्वप्नमूलजुरेख । रिरसयिषति भूयः शप्पमग्रे विकीर्ण
पटुतरचपलोष्ठः प्रस्फुरत्प्रोथमश्वः ।। 949 ।। ऊर्वे जानुनी यस्य स ऊर्ध्वजुः ।
35