________________
पाणिनिसूत्रव्याख्या
चम्पूरामायणे- V. 28.
त्वया सह प्रस्थितचित्तवृत्ति
विभावरीकोकसमानधर्मा। वचोऽब्रवीन्मैथिलि मन्मुखेन
त्वां कौशल कोसलराजपुत्रः ॥ 945 10 समानो धर्मो यस्य सः समानधर्मा।
चम्पूभारते-IV. 1. याते ततो निजपुरीं यदुवंशकेती
राज्ञे मयो मणिसभा रचयांबभूव । यस्या रुचं समवलोक्य शुचाधुनापि
जीवं गतागतजुषं वहते सुधर्मा ।। 946 ॥ शोभनो धर्मो यस्याः सा सुधर्मा । नकारान्तम् आकारान्त वा । समासान्त विधेरनित्यत्वात् नानिच् । चम्पूभारते-V. 99.
आपृच्छय ते तदनु नाकपतिः सुधर्मा
मासाद्य सिद्धमरुदप्सरसां समाजे । प्राशंसदस्य चरितं सविधे सुरभ्या
रोमन्थमप्यविगणय्य निशम्यमानम् ॥ 947 ॥ सुधर्माम् । नानिच् । किगतार्जुनीये-XVIII. 43.
मास्तिक्यशुद्धमवतः प्रियधर्म धर्म
धर्मात्मजस्य विहितागसि शत्रुवर्गे । संप्राप्नुयां विजयमीश यया समृद्ध्या
तां भूतनाथविभुतां वितराहवेषु ॥ 948 ।। मानिन् ।