________________
पाणिनिसूत्रव्याख्या कुमारसंभवे- VII 88.
तृप्तोपच.रां चतुरश्रवेदी
तावेत्य पश्चात्कनकासनस्थौ । जायापती लौकिकमेषणीय
माक्षतारोपणमन्वभूताम् ॥ 937 ॥ चतस्रोऽश्रयो यस्याः सा चतुरश्रा । चतुरश्रा च सा वेदी च चतुरश्रवेदी ताम् ।
८६२ । नित्यमसिच् प्रजामेधयोः । (५. ४. १२२) . नजदु:सुभ्य इत्येव । असिच् स्यात् । नास्ति प्रजा यस्य सोऽप्रजाः । अप्र. जसौ । दुष्प्रजाः । सुपजाः । अमेधाः । दुर्मेधाः । सुमेधाः । रघुवंशे----XVIII. 29.
तस्मिन् कुलापीडनिभे विपीड
सम्यक महीं शासति शासनाकाम् । प्रजाश्चिरं सुप्रजसि प्रजेशे
ननन्दुरानन्दजलाविलाक्ष्यः ॥ 938 ।। शोभनाः प्रजाः यस्य सः सुप्रजाः । तस्मिन् । रघुवंशे- VIII. 32.
स कदाचिदवेक्षितप्रजा
सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो
मरुतां पालयितेव नन्दने ॥ 939 ।। अवेक्षितप्रजः । नन्दुःसुभ्य एव । नान्येभ्यः । सुप्रजाः । अत्रासिच ।
अस्मिन्नेव ग्रन्थे श्लो० 785. दुष्टा मेघा यस्य सः दुर्मेधाः । चम्पुभारते-IV. 37.
___ग-तत्र स दुर्सेधाः बरुवदाकर्षणोद्भिदुराणि स्वेदपृषन्तीव भूषाजालकमुक्ताफलानि धारयन्त्याश्चिकुरभराकरतलनिष्पीडननिर्गलितां कालिमपारामिव निर्भरकुालय