________________
२५६
पाणिनिसूनव्याख्या अस्मिन्नेव अन्थे श्लो० 465. नदीमाकम् । 'वन्दिते भ्रातुः ' (सू. 895 ) इति कनिषेधः । रघुवंशे-XVI. 1.
अथेतरे सप्त रघुप्रवीरा
ज्येष्ठ पुरोजन्मतया गुणैश्च । चक्रुः कुशं रत्नविशेषभाज
सौभ्रात्रमेषां हि कुलानुसारि ॥ 899 ॥ शोभनो भाता येषां ते सुभ्रातरः । तेषां भावः सौभ्रात्रम् ।
८३६ । तसिलादिष्वा कृत्वसुचः (६. ३. ३५) तसिलादिषु आ कृत्वसुजन्तेषु परेषु स्त्रियाः पुंवत्स्यात् । तसौ । तरप्तमपौ । चरट्जातीयरौ । कल्पप्देशीयरौ । रूपप्पाशपौ । थाल । तिलथ्यनौ । बहीषु बहुत्र । बहुतः । दर्शनीयतरा । दर्शनीयतमा । 'घरूप' (सू. 985) इति वक्ष्यमाणो हवः परत्वात्पुंवद्धावं बाधते । पट्टितरा । पट्टितमा । पटुचरी । पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । दर्शनीयरूपा । दर्शनीयपाशा । बहुथा । प्रशस्ता वृकी वृकतिः । अजाभ्यो हिता अजथ्या ।
वा० । शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः । ( 3926.) बबीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः ।
___ वा । त्वतलोगुणवचनस्य । ( 3927. ) शुक्काया भावः शुक्लत्वम् ।
वा० । भस्याढे तद्धिते । ( 3928.) हस्तिनीनां समूहो हास्तिकम् । अढे किम् । रौहिणेयः । स्त्रीभ्यो ढक् ।
वा० । ठक्छसोश्च । ( 3929.) भवत्याश्छात्रा भावत्का भवदीयाः । तरप्तमपौ घसंज्ञको । रूपपकल्पपौ । चेलट् ।