________________
बहुव्रीहिसमासप्रकरणम्
२५५
मेघसंदेशे--I. 36. पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । नृतारम्भे हर पशुपतेराईनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिभवान्या ।। 895
८३३ । नतश्च । (५. ४. १५३)
नद्युत्तरपदाहदन्तोत्तरपदाच्च बहुव्रीहे: कप् स्यात् । पुंवद्भावः । कुमारसंभवे--VI. 4.
ते प्रभामण्डलैयौम द्योतयन्तस्तपोधनाः ।
सारुन्धतीकाः सपदि प्रादुरासन् पुरः प्रभोः ।। 898 ! अरुन्धत्या सह वर्तन्त इति सारुन्धतीकाः । माधे--XII. 4.
शुक्लैः सतारैर्मुकुलीकृतस्थुलैः
कुमुदतीनां कुमुदाकरैरिव । व्युष्टं प्रयाणं च वियोगवेदना
विदूननारीकमभूत्सम तदा ।। 897 ॥ वियोगवेदनाविडूना नार्यो यस्मिन् तत्तथोक्तम् । रघुवंशे-XVI. 68.
स नौ विमानादवतीर्य रेमे
विलोलहारः सह ताभिरप्सु । स्कन्धावलमोद्धतपद्मिनीकः
करेणुभिर्वन्य इव द्विपेन्द्रः ॥ 898॥ स्कन्धावलमा उद्धृतपद्मिनी यस्य स तथोक्तः । अस्मिन्नेव ग्रन्थे श्लो० 632. नद्येव माता यासां ता नदीमातृकाः ।