________________
२५४
पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 877. विगतो धवो यासां ता विधवाः । न विद्यते नृपो यस्यां सा अनृपा । नमोऽस्तीति समासः । ८३१ । स्त्रियाः पुत्रदापितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणी
प्रियादिषु । (६. ३. ३४) चित्रगुः । रूपवद्भायः ।
भट्टिकाव्ये - V. 13.
युवजानिधनुष्पाणि विष्ठः खविचारिणः ।
रामो यज्ञद्रुहो हन्ति कालकल्पशिलीमुखः ॥ 892 ॥ युवतिर्जाया यस्य सः युवजानिः । स्त्रियाः पुंवद्रावात् स्त्रीप्रत्ययो निवर्तते ।
अस्मिन्नेव ग्रन्थे श्लो० 243. मान्यभक्तिरित्यत्र कथं पुंवद्भावः । अप्रियादिष्विति निषेधात् भक्तिशब्दस्य च प्रियादिषु पाठादिति । नैष दोषः । नपुंसकपूर्वपदत्वात् । यथाह ' दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धमि' ति । भोजराजस्तु भज्यत इति भक्तिः । कर्मसाधनस्य प्रियादिपाठो यथा भवानीभक्तिरिति, न तु भजनम् इति भावसाधनस्य । अतोऽत्र स्त्रीपूर्वपदत्वेऽपि न दोष इत्याह ।
माघ--XIII, 42.
मुदितैस्तदेति दितिजन्मनां रिपा
वविनीय संभ्रमविकासिभक्तिभिः । उपसेदिवद्भिरुपदेष्टरीव तै
वृते विनीतमविनीतशासिभिः ॥ 893 ।। विकासिभक्तिभिः।
रघुवंशे-XII. 19.
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ॥ 894॥ दृढभक्तिः ।