________________
. ॥ अथ बहुव्रीहिसमासप्रकरणम् ॥
८२९ । शेषो बहुव्रीहिः । ( २. २. २३) अधिकारोऽयम् ।
८३० । अनेकमन्यपदार्थे । (२. २. २४)
वा० । प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (1360.) प्रादि:-१. ४. प्रपतितः पर्णः प्रपर्णः ।
वा० । नमोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः । (1361.) अविद्यमानः पुत्रोऽपुत्रः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः ।
भट्टिकाव्ये - XIX.1.
अपमन्युस्ततो वाक्यं पौलस्त्यो राममुक्तवान् ।
मशोच्योऽपि व्रजन्नस्तं सनाभिर्दुनुयान्न किम् ।। 890 ।। अपगतो मन्युर्यस्य सः अपमन्युः भट्टिकाव्ये-II. 31.
अधिज्यचापः स्थिरबाहुमुष्टि
रुदञ्चिताक्षोऽश्चितदक्षिणोरुः । तान् लक्ष्मणः सन्नतवामजो
जघान शुद्धेषुरमन्दकी ॥ 891 ॥ अध्यारूठा ज्या यस्य तदधिज्यम् ।
अस्मिन्नेव ग्रन्थे श्लो० 624अनुगता आपः येषु ते अनूपा जलपायदेशाः । बहुव्रीहिसमासः।