________________
३५२
पाणिनिसूत्रव्याख्या
सखदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥ 886 ||
मुखसुरा सुखसुरम् ।
अनघराघवे - VII. 122.
कण्ठछायनिपीतपन्नगफणार लौघमा त्रस्थितौ हारे निर्भयपार्वती भुजलताबन्धोल्लसत्कन्धरः । वत्सर्वाङ्गविरामवामनतमैरेव स्वरैः सामग
विश्रह्मशिरश्शिवाय जगता मेणाङ्कचूडामणिः ॥ 887 ॥
कण्ठस्य छाया कण्ठच्छायम् ।
चम्पूभारते -- II. 77.
बाणेन संप्रति नृपा दिवि लक्ष्यमेततच्छायवद्भुवि निपातयितुं पटुर्थः । मौर्वीमभामिव स दक्षिण एव पाणौ कुर्यात्स्वसारमभिदश्य मम स्वसारम् ॥ 888 ॥
तस्य छाया तच्छायम् ।
राघवे - VII. 85.
तर्कटक्क लिखितार्कमण्डल
प्रोच्चलत्कणकदम्बभासुरम् । शिल्पशालमिव विश्वकर्मणः
किं विभाति मृगतृष्णिकामयम् ॥ 889 ॥
शिल्पस्य शाला शिल्पशालम् ।
॥ इति कर्मधारयसमासप्रकरणम् ॥