________________
कर्मधारयसमासप्रकरणम् कुमारसंभवे-VI. 46.
सन्तानकतरुच्छायासुप्तविद्याधराध्वगम् ।
यस्य चोपवनं बाह्य गन्धवद्धन्धमादनम् ।। 884 इक्षुच्छायानिषादिन्य इतिवत् ।
८२६ । सभा राजामनुष्यपूर्वा ( २. ४. २३) राजपर्यायपूर्वोऽमनुष्यपूर्वश्व सभान्तस्तत्पुरुषो नपुंसक स्यात् । इनसभम् । ईश्वरसभम् । पर्यायस्यैवेष्यते । नेह । राजसभा । अमनुष्यशब्दो रूब्या रक्षःपिशाचादीनाह । रक्षःसभम् । पिशाचसभम् ।
अस्मिन्नेव ग्रन्थे श्लो० 449. राक्षससभम् ।
८२७ । अशाला च (२. ४. २४) संघातार्था या सभा तदन्तस्तत्पुरुषः क्लीदं स्यात् । स्त्रीसमें स्त्रीसंघात इत्यर्थः । अशाला किम् । धर्मसभा । धर्मशालेत्यर्थः । माघे-XIII. 14.
इतरानपि क्षितिभुजोऽनुजन्मनः ___ प्रमनाः प्रमोदपरिफुल्लचक्षुषः। स यथोचितं जनसभाजनोचितः
प्रसभोद्धतासुरसभोऽसभाजयत् ॥ 885 ॥ असुरसभा। ८२८ । विभाषा सेनासुराच्छायाशालानिशानाम् । (२. ४. २५)
एतदन्तस्तत्पुरुषः क्लीव वा स्यात् । ब्राह्मणसेनं ब्राह्मण सेना ! यवसुरं यवसुरा । कुड्यच्छाय कुड्यच्छाया । गोशालं गोशाला । श्वनिशम् श्वनिशा । माघे--X. 23.
दत्तमात्तमदनं दयितेन
व्याप्तमातिशयिकेन रसेन ।