SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५० पाणिनिसूत्रव्याख्या रघुवंशे-XII. 43. प्राप्य चाशु जनस्थान खरादिभ्यस्तथाविधम् ! रामोपक्रममाचख्यौ रक्षःपरिभवे नवम् ॥ 880 ।। उपक्रम्यत इत्युपक्रमः । कर्मणि घञ् । रामस्य कर्तुरुपक्रमः रामोपक्रमम् । रामेणादावुपक्रान्तमित्यर्थः । ८२५ । छाया बाहुल्ये। (२. ४. २२) छायान्तस्तत्पुरुषो नपुंसक स्यात् पूर्वपदार्थबाहुल्ये । इथूणां छाया इक्षुच्छायम् । 'विभाषा सेना' (सू. 828 ) इति विकल्पस्यायमपवादः । भट्टिकाव्ये--V. 2. तौ खड्गमुसलपासचक्रवाणगदाकरौ । अकार्टामायुधच्छायं रक्षःसन्तमसे रणे ॥ 881 ।। आयुधानां छाया आयुधच्छायम् । रघुवंशे--XIL.,50. सा बाणवर्षिणं राम योधयित्वा सुरद्विषाम् । अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥ 882 ।। गृध्राणां छाया गृध्रच्छायम् । अस्मिन्नव ग्रन्थे श्लो० 61. इथूणां छाया इक्षुच्छायम् । नपुंसकत्वम् । तत्र निषण्णा इक्षुच्छायनिषादिन्यः । स्त्रीलिङ्गपाठे इक्षोः छाया इति विग्रहः । रघुवंशे-I. 75. पुरा शक्रमुपस्थाय तवोर्वी प्रति यास्यतः । आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ।। 883 ॥ अत्र कल्पतरोः छाया कल्पतरुच्छाया ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy