________________
पाणिनिसूनव्याख्या अमिन्नेव अन्ये इलो 799. अतीन्द्रियेषु इन्द्रियाण्यतिकान्तेषु । 'अत्या दयः क्रान्ताद्यर्थे ' ( . 1386. सू. 780) इति समासः । अनेन वार्तिकेन परवलिनताप्रतिषेधात् विशेप्यनिघ्नत्वम् ।।
अस्मिन्नेव ग्रन्थे श्लो. 599. निष्क्रान्तो लङ्काया निलङ्कः । “निरादयः क्रान्ताद्यर्थे ' (वा. 1339. सू. 780) इति गतिसमासः । पूर्ववत् विशेष्यलिङ्गता ।
८१४ । रानाहाहाः पुंसि । (२.४.२९) एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अहश्च रात्रिश्च अहोरात्रः । पूर्वरात्रः । पूर्वाह्नः । द्वयहः ।
(लि. सू. ) संख्यापूर्व रात्र क्लीयम् । ( 131.)
द्विरात्रम् । त्रिरात्रम् । गणरात्रम् । 'पुण्यसुदिनाभ्यामहः क्लीबतेष्टा' (वा. 1556. सू. 821) पुण्याहम् । सुदिनाहम् ।
___ अस्मिन्नेव ग्रन्थे श्लो० 687. सर्वा रात्रयः सर्वरात्राः । 'पूर्वकालैकसर्व ' (सू. 726) इत्यादिना समासः । 'अहःसर्व' (सू. 787) इत्यादिना समासान्तोऽन् । अनेन पुल्लिङ्गता ।
अस्मिन्नेव ग्रन्थे श्लो० 614. अर्ध रात्रेरर्धरात्रः । — अर्थ नपुंसक ' ( सू. 718 ) इत्येकदेशिसमासः । पूर्ववत् अच पुंस्त्वम् ।
अस्मिन्नेव *थे श्लो० 734. सर्वा रात्रिः सर्वरात्रः । पूर्वकाल ' (सू.726) इत्यादिना समासः । स पूर्ववत् । . . . . अस्मिन्नवग्र थे श्लो० 728. अपररात्रः । 'पूर्वापर' (सू. 712 ) इत्यादिना समासः । शेषं पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लो० 722. अपररात्रः । पूर्ववत् । .
अस्मिन्नेव ग्रन्थे श्लो० '721. अपरोऽहः अपराह्नः । 'पूर्वापर ' (सू. 712) इत्यादिना एकदेशिसमासः । 'राजाह' (सू. 788) इति टच । ' अहोङ्ग' (सू. 790) इत्यहादेशः । 'अहोऽदन्तात् । (सू. 791) इति णत्वम् । अनेन पुंस्त्वम्।
अस्मिन्नेव ग्रन्थे इलो० 720. पूर्वाह्नः । पूर्ववत् ।