________________
कर्मधारयसमासप्रकरणम् अस्मिन्नेव ग्रन्थे लो० 319. त्रयाणामहां समाहारः व्यहः । सद्भितार्थ : (सू. 728) इति समास: । द्विगुत्वादेकवचनम् । पूर्ववट्टच् । अनेन पुंस्त्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 431. यहात् । पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 742. दशाहः । पूर्ववत् । चम्पूभारते-I. 29. ग-~-क्रमादतिपतिते चावरोधवधूजनानुरोधगुणदात्रे गणरात्रे | 867 !! गणरानं नपुंसकम् । अनर्धराघवे-I. 36.
ग-कतिपयरात्रमायुधसध्रीचा रामभद्रेण संनिहितवैतानवतानामस्माकमाश्रमपदं सनाथीकरिष्यते ॥ 868 ।।
. कतिपयरात्रमिति कतिपयराव्याविशेषणसमास कृत्वा । ' अहःसबैकदेश' (सू. 787) इत्यादिना समासन्तोऽच । अत्र 'संख्यापूर्वम् (लि. सू. 131. सू. 814) इति नपुंसकत्वम् ।
८१५ । अपथं नपुंसकम् । (२. ४. ३०) माघे-XII. 28.
वन्येभदानानिलगन्धदुर्वराः
क्षण तरच्छेदविनोदितक्रुधः । व्यालद्विपा यन्तृभिरुन्मदिष्णवः
कथिचिदारादपथेन निन्यिरे ॥ 869 ।।
. .. अपथेन अमार्गेणः । 'ऋक् पू:' (सू. 940) इत्यादिना समासान्त: प्राप्तः । 'नजः' (सू. 956) इति प्रतिषिद्धः सन् 'एथो विभाषा' (सू. 967) इति विकल्पितः । अनेन नपुंसकत्वम् ।
अस्मिन्नेद ग्रन्थे श्लो० 19. अपथानि । पूर्ववत् ।
८१६ । अर्धर्चाः पुंसि च । (२. ४. ३१)