________________
कर्मधाश्यसमासप्रकरणम्
-
२४३
अगाहताष्टादशता जिगीषया
नवद्वयद्वीपपृथग्जयश्रियाम् ॥ 868 11 अष्टादश। भट्टिकाव्ये --XVII. 40-41.
दोषैररमतैभिस्ते पितात्यज्यत थैर्मया । ततोऽरुण्यदनर्दच्च द्विविंशतिभिरेव च ॥ 864 || शरैरतायडद्वन्धु पंचविंशतिभिर्नुपम् ।
रावणिस्तस्य सौमित्रिरमश्नाचतुरहे हयान् ॥ 865 !! द्वे विंशती येषामिति बहुव्रीहिः । तेन द्वयष्टन इत्यात्वं न द्वौ च विंशतिश्चेति द्वन्द्वे द्वाविंशतिरिति स्यात् । पूरणार्थे द्वाविंशतितमः द्वाविंशः !
८०९ । तेस्त्रयः । (६. ३. ४८) त्रिशब्दस्य त्रयादेशः स्यात् । त्रयोदश । त्रयोविंशतिः । अनपराघवे-III. 2.
त्रयस्त्रिंशत्कोटित्रिदशमयमूर्तेर्भगवतः
सहस्रांशोवंशे जयति जगदीशो दशरथः । यदस्त्रैरस्निग्धैरसुरयुवनिश्वासपवन
प्रकोपे सिद्धे न स्पृशति शतकोटिं शतमखः ॥ 866 ।। त्रयस्त्रिंशदित्यत्र त्रयादेशः । ८१० । विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । ( ६. ३. ४९)
द्वयष्टनोस्त्रेश्च प्रागुक्तं वा स्यात् चत्वारिंशदादौ परे । द्विचत्वारिंशत् द्वाचत्वारिंशत् । अष्टचत्वारिंशत् अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् त्रयश्चत्वारिंशत् । एवं पंचाशत्पष्टिसप्ततिनवतिषु ।
८१२ । परवल्लिङ्ग द्वन्द्वतत्पुरुषयोः । (२. ४. २६) एतयोः परपदस्येव लिङ्गं स्यात् । वा । द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः । ( 1545.)