SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या जज्वाल लोकस्थितये स राजा यथाध्वरे वह्निरभिप्रणीतः ॥ 861 महाब्रह्माः महाब्रह्माणो वा । तेषां समूहः । ८०७ | आन्नहतः समानाधिकरणजातीययोः । ( ६.३.४६ ) महत कारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्म: महाब्रह्मा | महादेव: । महाजातीयः । समानाधिकरणे किन् । महतः सेवा महत्सेवा | २४२ चम्पूरामायणे - III. 1. प्रविश्य विपिन महत्तदनु मैथिलीबल्लभो महाबलसमन्वितश्चलितनीलशैलच्छविः निशाचरदवानलप्रशमनं विधातुं शरै श्वचार सशरासनः सुरपथे तटित्वानिव || 862 महच्च तद्वले च महाबलम् । वा० । अष्टनः कपाले हविषि । (3951. ) ष्ट कपालेषु संस्कृतः पुरोडाशः अष्टाकपालः । वा० । गवि च युक्ते । (3952.) अष्टागवं शकटम् । ८०८ । द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः । ( ६. ३.४७ ) आत्स्यात् । द्वौ च दश च द्वादश । द्वयधिका दशेति वा । द्वाविंशतिः अष्टादश । अष्टाविंशतिः । अबहुव्रीह्यशीत्योः किम् । द्वित्राः । द्वयशीतिः । वा० । प्राक्शतादिति वक्तव्यम् । ( 8953.) नैषधे - I. 5. अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy