________________
पाणिनिसूनव्याख्या
अम्मिन्नेव ग्रन्थे श्लो० 431. व्यहात् । पूर्ववत् ।
७९४ । उत्तमैकाभ्यां च (५. ४. ९०) आभ्यामहादेशो न । उत्तमशब्दोऽन्त्यार्थः पुण्यशब्दमाह । पुण्यैकाभ्याम् इत्येव सुत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तवाची । एकाहः ।
७९५ । अग्राख्यायामुरसः । (५. ४. ९३) टच स्यात् । अश्वानामुर इवाश्वोरसम् । मुख्योऽध इत्यर्थः । ७९६ । अनोऽश्मायःसरसां जातिसज्ञयो। (५. ४. ९४)
टच् स्यात् जातौ संज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । मण्डुकसरसम् । इति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । जलसरसम् । इति संज्ञा। चम्यूभारते-VI. 43.
सायं महानसशयं शनकैर्ययौ सा
भीमं रहः पृथुशरावकृतोपधानम् । धूमाधिरोहमलिनं वसनं वसाने
नीलाम्बुवाहपरिवीतमिवाचलेन्द्रम् ॥ 8591 ७९७ । ग्रामकोटाभ्यां च तक्ष्णः । (५. ४. ९५) ग्रामस्य तक्षा ग्राभतक्षः । कुटयां भवः कौटः । कौटश्चासौ तक्षा च कौटतक्षः । । ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनक: ' II. x. 9. इत्यमरः ।
___७९८ । अतेः शुनः । (५. ४. ९६) अतिक्रान्तः श्वानमतिश्वो वराहः । अतिश्वी सेना। टित्वान् की । 'अत्यादयः' इति समासः ।
८०१ । नावो द्विगोः । (५. ४. ९९) नौशब्दान्ताद् द्विगोष्टच् स्यात् ।
८०२ । अर्धाच्च । (५. ४. १००)