________________
कर्मधारयलमासप्रकरणम्
२३६ भट्टिकाव्ये--IX. 109.
रोषभीममुखेनैवं क्षुम्नतोले प्लवंगमः ।
प्रोचे सानुनय वाक्यं रावणं स्वार्थसिद्धये ।। 835 || शुभ्नता क्षुभ्यता ) णत्वप्रतिषेधः । माघे-IX. 43.
ककुभां मुखानि सहसोज्ज्वलयन्
दधदाकुलत्वमधिकं रतये। अदिदीपदिन्दुरपरो दहनः
कुसुमेघुसविनयनप्रभवः ॥ 866 !! कुमारसंभवे-VII. 69.
इत्योपधिप्रस्थविलासिनीनां __ शृण्वन्कथाः श्रोत्रसुखात्रिनेत्रः । केयूरचूर्गीकृतलाजमुष्टिं
हिमालयस्यालयमाससाद ।। 857 ।। त्रिनेत्रत्रिनयनशब्दयोः क्षुम्नादित्वान्न णत्वम् । रघुवंशे-XV. 4.
रघुनाथोऽप्यगस्त्येन मार्गसन्दर्शितात्मना ।
महौजसा संयुयुजे शरत्काल इवेन्दुना ।। 858 ॥ रघुनाथत्यत्र क्षुम्नादित्वाष्णत्वाभावः ।
७९३ । न सङ्ख्यादेः समाहारे । ( ५. ४. ८९) समाहारे वर्तमानस्य संख्यादेरहादेशो न स्यात् । द्वयोरहोः समाहारः द्वयहः ।
अस्मिन्नेव ग्रन्थे श्लो० 742. दशानामहां समाहारः दशाहः । तद्धितार्थ' (सू. 728) इत्यादिना समासः । समाहारस्यैकत्वादेकवचनम् । 'राजाहः' (सू. 788) इति टच । ' रात्राहा' (सू. 814) इति पुंस्त्वम् । अनेनाहादेशाभावः ।