________________
२३८
पाणिनिसूत्रव्याख्या
पवमानसखस्ततः क्रमेण
प्रणयकोध इवाशमद्विवादैः ।। 853
एवमानस्य सखा पवमानसखः अग्निः । टच् । तत्पुरुषः । 'रोहिताश्वी वायुसखा' इत्यसमासान्तपाठेन बहुव्रीहिमाह स्वामी ।
अनर्घराजवे-III. 33.
उत्पादयन्कमपि कौणपकोटिहोम
तेजोहुताशनसमिन्धनसामिधेनीम् । यस्ताटकामकृत बालसखैः पृषकै
रीषजयः स्फुटमनेन दशाननोऽपि ॥ 1854 ।। बालस्य सखायो बालसखा। टच ।
मम्मिन्नेव ग्रन्थे श्लो० 695. विबुधानां सखा विबुधसखः । 'न पूजनात् ' (सू. 954. ) ' नअस्तत्पुरुषात् ' (सू. 956 ) टचप्रतिषेधः ।
७९० । अहोऽह्न एतेभ्यः । (५. ४. ८८.) 'अहःसर्वैकदेश' (सू. 787 ) इत्यत्रोक्तेभ्यः सर्वादिभ्यः परस्याहन्शब्दस्याहादेशः स्यात् समासान्ते परे।
७९१ । अहोऽदन्तात् । (८.४, ७) रेफात्परस्याहादेशस्य नस्य णः स्यात् । सर्वानः । पूर्वाह्नः । संख्याताहः ।
अस्मिन्नेव अन्थे श्लो० 720. पूर्वमहः पूर्वाह्नः । तस्मिन् । 'पूर्वापर' (सू. 712 ) इत्यादिना एकदेशिसमासः ! 'राजाहः' (सू. 788) इति टच । 'अहोऽह' (सू. 790) इत्यहादेशः । अहोऽदन्तात् ' (सू. 791 ) इति णत्वम् । अस्मिन्नेव ग्रन्थे श्लो० 721. अपरोऽपरभागोऽहोऽपराह्नः । पूर्ववत् ।
७९२ । क्षुम्नादिषु च । (८, ४. ३९) एषु णत्वं न स्यात् । शुभ्नादि:- ८. ११.