________________
कर्मधारयसमासप्रकरणम्
अस्मिन्नेव ग्रन्थे श्लो० 614. अर्थ रार्धरात्रः । म नपुंसकं ? (सू. 713) इति एकदेशिसमासः । अनेन समासान्तोऽच् ! रानाहाहा: पुसि (सू. 814) इति पुंस्त्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 722. अपरः रात्रेः अपररात्रः । 'पूर्वापर " (सू. 712) इत्यादिना एकदेशिसमासः । अनेन समासान्तोऽच ! पूर्ववत्पुंस्त्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 728 अपररात्रजागरूकः पूर्ववत् ।।
भस्मिन्नेव ग्रन्थे श्लो० 99. पश्चिमा चासौ रात्रिश्च पश्चिमरातिः । विशेषणसमासः । न तु पश्चिम रात्रेरित्येकदेशिसमासः । तद्विधायके 'पूर्वापर' (सू. 787 ) इति सूत्ने पश्चिमशब्दाग्रहणात् ।
७८८ । राजाहासखिभ्यष्टच । (५. ४. ९१) एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः । अतिराजी । कृष्णसवः ।
७८९ । अष्टखोरेव । (६. ४. १४५) एतयोरेव मरतोऽहष्टिलोप: स्यान्नान्यत्र । उत्तमाहः । टचि टिलोप: । वे महनी भृतो व्यहीनः क्रतुः । तद्धितार्थे द्विगुः । 'तमधीष्टः' (सू. 1744) इत्यधिकारे 'द्विगोर्वा ' (सू. 1760) इत्यनुवृत्तौ 'रात्र्यहःसंवत्सराच्च' (सू. 171) इति खः । टिलोपः।
अस्मिन्नेव ग्रन्थे श्लो० '742. दशानामहां समाहरो दशाहः । तद्धितार्थ' (सू. 728 ) इत्यादिना समासः । समाहारस्यैकत्वादेकवचनम् । 'राजाहःसखिभ्यः' (सू. 788 ) इति टचि टिलोपः । रात्राहा' (सू. 814) इति पुंस्त्वम् । ततस्तसिल ।
अस्मिन्नेव ग्रन्थे श्लो० 431. त्रयाणामहां समाहारः । त्यहः । पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 14. अनूपानां राजा अनूपराजः । अनेन टच । माघे-XX. T1.
मधुरैरपि भूयसा स मेध्यैः ..
प्रथम प्रत्युत वारिभिर्दिदीपे ।