SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २३६ पाणिनिसूबव्याख्या शेषस्त्वदाश्लेषकथापनिदै स्तदोमभिः सन्दिदिशे भवत्यै ।। 8511 विकल्पादसमासः अस्मिन्नेव ग्रन्ये श्लो० 730. महेन्द्रलोकप्रतिमा महेन्द्रलोकेन प्रतिमाम् । अमेति योगविभागात्समासः । ७८५ क्त्वा । (२. २. २२) तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । भट्टिकाव्ये--V.95. त्रस्यन्ती तां समादाय यातो रात्रिंचरालयम् । तूष्णीभूय भयादासांचक्रिरे मृगपक्षिणः ।। 852 ।। तूष्णीभूय । ' तूष्णीमि भुवः' (सू. 3886 ) इति पक्षे क्ताप्रत्ययः । क्ता चेति पक्षे समासे तो स्यबादेशः । ७८६ । तत्पुरुषस्याङ्गले सङ्ख्याव्ययादेः । (५. ४. ८६) सङ्ख्यांव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच स्यात् । द्वे अङ्गुली प्रमाणमस्य व्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् । ७८७ । अहः सर्वैकदेशसङ्ख्यातपुण्याच रातः (५. ४. ८७) एभ्यो रात्रेरच् स्यात् । चात्सङ्ख्याव्ययादेः । अहश्च रात्रिश्च अहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्व रात्रेः पूर्वरात्रः । सङ्ख्यातरात्रः । पुण्यरात्रः । द्वयोः राज्योः समाहारः द्विरात्रम् । सङ्ख्यापूर्व रात्रं क्लीबम् । अतिक्रान्तो रात्रिमतिरात्रः । ___ अस्मिन्नेव ग्रन्थे श्लो० 687. सर्वा रात्रयः सर्वरालाः । 'पूर्वकाल' (सू. 726) इति समासः । अनेन समासान्तोऽच् । 'रात्राहाहाः पुंसि' (स. 814) इति पुंस्त्वम् । अस्मिन्नेव ग्रन्थे श्लो० 784. सर्वस्यां रात्रौ सर्वरात्रः तम् । पूर्ववत् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy