________________
কলঙ্ঃৰকলঙ্কমচন্দ্র
२३३ शूरमात्मानं मन्यत इति शूरमानी ! मन्यतेणिनिः ! साधु मान मन्यत इति साधुंमन्यम् । खश् । भट्टिकाव्ये-VI. 129.
मृघासि त्वं हविर्याजी राघव च्छमतापसः ।
अन्यव्यासक्तघातित्वाब्रह्मनां पापसंमितः । * : हविषा इष्टवान् हविर्याजी । 'करणे यज' (सू. 2996) इति अते णिनिः । अन्यव्यासक्तं हतवान् अन्यव्यासक्तघाती। 'कर्मणि इनः' (सु. 2987 ) इति भूते गिनिः । ब्रह्माणं हतवतां ब्रह्मनाम् । किम् । भट्टिकाव्ये-VI. 130.
पापकृत्सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः ।
मामपापं दुराचार किं निहत्याभिधास्यति ।। 841 ।। पुण्यं कृतवान् पुण्यकृत् । तस्य । पापं कृतवान् पापकृत् । सुक्रताम् । सर्वत्र भूते क्विम् । भट्टिकाव्ये-VI. 131.
अग्निचित्सोमसुद्राजा रथचक्रचिददिषु ।
अनलेप्विष्टवान्कस्मान्न त्वयापेक्षितः पिता ! 8421 अमि चितवान् अग्निचित् । क्रिप् ! सोमं सुतवान् सोमसुत् । किम् ? रथचक्रमिव चीयत इति स्थचक्रचित् । किम् । भट्टिकाव्ये -- VE. 132.
मांसविक्रायणः कर्म ज्याधस्यापि विगर्हितम् ।
मां नता भवताकारि निःशकं पापदृश्वना ।। 483 !; पापं दृष्ट्वान्यापश्वा । कनिम् । मांस विक्रीतवान् मांसविक्रयी। कुत्सायामिनिः। भट्टिकाव्ये--VI. 138.
बुद्धिपूर्व द्रुवन्न त्वां राजकृत्वा पिता खलम् । सहयुध्वानमन्येन योऽहिनो मामनागसम् ॥ 844 ॥
30