________________
पाणिनिसूनव्याख्या राजानं कृतवानराजकृत्वा । क्वनिम् । सहयुध्वानं सहयुद्धवन्तम् । कनिम् । भट्टिकाव्ये—VI. 184. __पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर्द्विजैः।
कौसल्याज शशादीनां तेषां नैकोऽप्यहं कपिः ।। 845 ॥ कृते जातैः कृतजैः । सप्तन्यां जनेडः' (सू. 3007) इति डः । द्वितिद्विजैः । 'अन्येष्वपि दृश्यते । (सू. 3011) इति : । कौसल्याया जात कौसल्याज । 'पंचम्यामजातौ ' ( स्पू. 3008 ) इति डः । भट्टिकाव्ये-VI. 185.
कथं दुःस्थः स्वयं धर्मे प्रजास्त्वं पालयिष्यसि ।
आत्मानुजस्य जिह्वेषि सौमित्रेस्त्वं कथं न वा ॥ 846 ॥ प्रजाताः प्रजाः । डः । आत्मानमनुजातः आत्मानुजः । 'अनौ कर्मणि' (सू. 8010) इति डः।
७८३ । अमैवान्ययेन । ( २. २. २०) खादुङ्कारम् । भट्टिकाव्ये--V. 39.
तं भीतकारमाक्रुश्य रावणः प्रत्यभाषत ।
यातयाम विजितवान् स रामं यदि किं ततः ।। 847 ।। भीतं कृत्वा भीतकारम् । 'कर्मण्याकोश । ( सू. 3346) इति खमुन् । - अस्मिन्नेव ग्रन्थे श्लो० 735. साकल्येन मांसशोणिते सन्दश्य मांसशोणितसन्दर्शम् । णमुल । तुण्डेन घातो यस्मिन्कर्मणि तत्तुण्डघातम् इति बहुव्रीहिः । 'करणे हनः' (सू. 3358) इति णमुलन्तत्वे पादघातं हन्तीतिवत् ‘कषादिषु ' (सू. 3367 ) इति यथाविध्यनुप्रयोगः स्यात् । भट्टिकाव्ये-III. 49. समूलकाषं चकधू रुदन्तो
रामान्तिकं हितमन्युवेगाः।