SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २१२ पाणिनिसूनव्याख्या उत्तररामचरिते --I, 24 अलसललितमुग्धान्यध्वसंपातखेढा दशिथिलपरिरम्भैदचसंवाहनानि । परिमृदितमृणालीदुर्बलान्याकानि - त्वमुरसि मम कृत्वा यत्र निद्रामबाप्ता ।। 794 1 वं नमोरसि अङ्गकानि कृत्वा निद्रामवासा । उरसोऽत्वाधानत्वात्समासोऽत्र न । अनत्याधान इति निषेधात् । ७७७ १ मध्येपदनिवचने च । (१.४, ७६) - एते कृमि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य मध्ये कृत्वा । पदेवत्य पदे कृत्वा निवचने कृत्य निवचने कृत्वा । वाचं नियम्येत्यर्थः । अनवराघवे-I. 37. मध्येकृत्य घन घिनोति जलधिः स्वैरन्बुभिर्मेदिनी हन्ति स्वै. किरणैस्तमिलमरुणं कृत्वान्तराले रविः । त्वं समान्तरितश्च पालय निजैरेव प्रतापैः प्रजा मीहकोऽपि परोपकारयुहृदामेष खभावो हि वः ॥ 795 !! अध्यकृत्य । अनेन गतिसंज्ञायां 'कुगति' (मू, 761) इति समासे कत्वो ल्यप् । -: .७७८ । नित्यं हस्तेपाणावुपयमने । (१. ४. ७७) कृमि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तेकृत्य । पाणौकृत्य । भट्टिकाव्ये-V. 16. सहायवन्त उद्युक्ता बहवो निपुणाश्च याम् । श्रियमाशासते लोलां तां हस्तकृत्य मा श्वसीः ॥ 796 ।। हस्तकृत्य स्वीकृत्य । अनेन गतिसंज्ञायां समासे ल्यबादेशः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy