________________
कर्मधारयसमासप्रकरणम्
साक्षात्कृत्य साक्षा कृत्वा । लवर्णकृत्य लवणं कृत्वां । मान्तत्वं निपातनाए । भट्टिकाव्ये -V. 21. मिथ्यैव श्रीः श्रियमन्या श्रीमन्मन्यो मृषा हरिः ।
साक्षात्कृत्यामिनन्येऽहं त्वां हरन्तीं श्रियः श्रियम् || 790 ।।
साक्षात्कृत्य प्रत्यक्षीकृत्य ! 'विभाषा कृषि' (सू. 778) इत्यनुवर्तमाने 'साक्षात्प्रभुतीनि च (मु. 775) इति गतिसंज्ञा । गतिसमासे ल्यबादेशः।
७७६ । अनत्याधान उरसिमनसी । (१. ४. ७५)
उरसिकृत्य उरसि कृत्वा ! अभ्युपगम्येत्यर्थः । मनसिकृत्य मनसि कृत्वः । निश्चित्येत्यर्थः । नैषधे-V. 80.
दुर्लभ दिगधिपः किममीनि
स्तादृशं कथमहो मदधीनम् । ईश मनसिकृत्य विरोध
नैषधेन समशायि चिराय ।। । मनसिकृत्य। अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणि शेते । अनघराघवे-IV. 15.
ग - ततश्च सापि शबरयोगिनी सुग्रीवगुणानुरोधेन सवैमोमित्यरसिकृत्य तदैव विदेहाभिमुखी प्रस्थिता इति ॥ 792 ।।
उरसिकृत्य। अनर्धराघवे-V. 35.
सन्तो मनसिकृत्यैव प्रवृत्ताः कृत्यवस्तुनि ।
कस्य प्रतिशृणोति स्म कमलेभ्यः श्रियं रविः ॥ 793 || मनसिकृत्य निश्चित्य । गतिसंज्ञायां समासे ल्यप् ।