________________
तत्पुरुषसमासप्रकरणम
१९१
पूरणाद्ययैः सदादिभिश्व षष्ठी न समस्यते । पूरणे । सतां षष्ठः । गुणे, काकस्य कार्यम् । अनित्योऽयं गुणेन निषेधः । तेन अर्थगौरवम् बुद्धिमान्द्यम् इत्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः । सुहितार्थे करणे षष्ठीविधायक प्रमाणं नास्ति । पूरण इत्येतत्सूत्रेण षष्ठीसमासनिषेधात् करणे षष्टयनुमीयते । फलानां सुहितः । करणे तृतीयासमासस्तु स्यादेव । सत्, द्विजस्य कुर्वन्कुर्वाणो वा । अव्यय, ब्राह्मणस्य कृत्वा । कृदव्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धम् । तव्य, ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् । स्वरे भेदः । समानाधिकरणे, तक्षकस्य सर्पस्य ।
रघुवंशे - V. 7.
निर्वत्र्त्यते यैर्नियमाभिषेको
येभ्यो निबापाञ्जलयः पितृणाम् ।
तान्युञ्छषष्टाङ्कित सैकतानि
शिवानि वस्तीर्थजलानि कच्चित् ॥ 709 ॥
उम्छानां षष्ठैः षष्ठभागैः उच्छषष्ठैः । ' षष्ठाष्टमाभ्यां न च' (सू. 1996 ) इति भागार्थे चादन् प्रत्ययः । अत एवापूरणार्थत्वादत्र षष्ठीसमासप्रतिषेधो न ।
भट्टिकाव्ये – I. 6.
निर्माणदक्षस्य समीहितेषु
सीमेव पद्मासन कौशलस्य |
ऊर्ध्वस्फुरद्रलगभस्तिभिर्या
स्थिता विहस्येव पुरं मघोनः ॥ 710 ॥
पद्मासनकौशलस्येत्यत्र षष्ठीसमासप्रतिवेधो न । शुक्तः पटः, पटस्य शुक्ल इति गुणे गुणिनि च दृष्टानां शुक्लादिशब्दानामेव निषेधात् ।
किरातार्जुनीये – II. 27.
स्फुटता न पदैरपाकृता
न च न स्वीकृतमर्थगौरवम् । रचिता पृथगर्थता गिरां
न च सामर्थ्यमपोहितं कचित् ॥ 711 ॥
अथगौरवमिति समासेऽपि न दोषः ।