________________
पाणिनिसूत्रव्याख्या भट्टिकाव्ये--V. 108
प्रलठितमवनौ विलोक्य कृतं
दशबदनः खचरोत्तमं प्रहृष्यन् । स्थवरमधिरुह्य भीमधुर्य
स्वपुरमगात्परिगृह्य रामकान्ताम् ॥ 706 ।। खचरागामुत्तम इति षष्ठीसमासस्य प्रतिषेधात् स्वचरेषूतमः खचरोत्तमः, तम् । माघ----I. 31.
इति ब्रवन्त तमुवाच स व्रती
नवाच्यमित्य पुरुषोत्तम त्वया । त्वमेव साक्षात्करणीय इत्यतः .
किमस्ति कार्य गुरु योगिनामपि || 707 ।। पुरुषेषुत्तमः पुरुषोत्तमः। किरातार्जुनीये-VII. 20.
माहेन्द्र नगमभितः करेणुवर्या
पर्यन्तस्थितजलदा दिवः पततः । सादृश्यं निलयननिष्प्रकम्पपक्ष
राजग्मुर्जलनिधिशायिभिनगेन्द्रः ॥ 708 ।। करेणुषु वर्याः करेणुवर्याः ।
अस्मिन्नेव ग्रन्थे श्लो० 602. वदतां निर्धारणे षष्ठी । वरः श्रेष्ठः । अत्र समासो न ।
अस्मिन्नेव ग्रन्थे श्लो० 28. सर्वतेजःसु । निर्धारणे सप्तमी । ज्योतिष्टमाम् । अत्र समास: स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 601. स्त्रीषु मध्ये दर्शनीयतमाः । समासः स्यात् ।
७०५ । पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २. २. ११)