________________
तत्पुरुषसमासपकरणम्
अस्मिन्नेव ग्रन्थे श्लो० 512. कुसुमानां , कृद्योगे कर्मणि षष्ठी , उत्किरन्तीत्युत्किराः । कुमुमोत्किरास्तैः । भट्टिकाव्ये -V. 93.
मा स्म भूहिणी भीरु गन्तुमुत्साहिनी भव ।
उद्भासिनी च भूत्वा नो वक्षःसमर्दिनी भव ।। 702 ॥ वक्षासमर्दिनी । षष्ठीसमासः । नन्दिग्रहीत्यादे: अनुपपदाधिकारात् । भट्टिकाव्ये-- VII. 82.
देहव्रश्चनतुण्डाग्रं तं विलोक्याशुभाकरम् ।
पापगोचरमात्मानमशोचन वानरा मुहुः ॥ 703 ।। वृश्चयते भिद्यतेऽनेनेति व्रश्चनम् । करणे ल्युट् । देहस्य व्रश्चनं देहत्रश्चनम् ।
अस्मिन्नेव ग्रन्थे श्लो० 507. कपीनां नन्दनः कपिनन्दनः । नन्द्यादित्वात् ल्युः। भट्टिकाव्ये---V. 6.
दण्डकामध्यवातां यौ वीर रक्षःप्रकाण्डको ।
नृभ्यां संख्येऽकृषातां तो सभृत्यौ भूमिवर्धनौ ॥ 704 ॥ वर्धयत इति वर्धनौ । त्युः । भूमेवधनौ भूमिवधनौं । भट्टिकाव्ये-V. 45.
शीर्षच्छेद्यमतोऽहं त्वां करोमि क्षितिवधनम् ।
कारयिष्यामि वा कृत्यं निजिघृक्षुर्वनौकसौ ।। 705 ॥ क्षितिवर्धनमिति कृद्योगषष्ठीसमासः । अस्मिन्नेव ग्रन्थे श्लो० 206. स्त्रीपुंसभीषणे ।
७०४ । न निर्धारणे । (२. २. १०) 'यश्च निर्धारणम् ' (सू. 638 ) इति षष्ठी न समस्यते । सप्तमीसमासः साधुः । . .