________________
१९२
पाणिनिसूत्रव्याख्या किरातार्जुनीये--VIII. 44.
श्रिया हसद्भिः कमलानि सस्मितै
रलङ्कृताम्बुः प्रतिमागतैमुखैः । कृतानुकल्या सुरराजयोषितां
प्रसादसाफल्यमवाप जाह्नवी ॥ 712 ।। प्रसादस्य साफल्य प्रसादसाफल्यम् इति षष्ठीसमासः । अर्थगौरववत् । अस्मिन्नेव ग्रन्थे श्लो० 308. रसस्य, करणे षष्ठी। तृप्तां । अन समासो न ।
अस्मिन्नेव ग्रन्थे श्लो० 310. शुद्धान्तसंभोगेन करणे तृतीया । नितान्ततृप्ते शुद्धान्तसंभोगनितान्ततते।
तृतीयासमासः साधुः । अपां, करणे षष्ठी । तृप्ताय । अत्र समासो न । चम्पूभारते-VI. 9. पितुः सखायं परिपूज्यमेधै
दिने दिने तृप्तिमिवोपनेतुम् । सूदाकृतिः सोऽपि ययौ विराट
वृकोदरो वृत्तशरावपाणिः ॥ 713 ॥ एधैस्तृप्ति । अत्र समासः स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 309. जतुगृहैः सुहितेन तृप्तेन । अत्र समासः स्यात् ।
७०६ । क्तेन च पूजायाम् । (२. २. १२)
मतिबुद्धि (सू. 3089 ) इति सूत्रेण विहितो यः क्तस्तदन्तेन ‘क्तस्य च वर्तमाने ' (सू. 625 ) इति षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते तान्तेन सह तृतीयान्तस्य समासः । रघुवंशे-VIII. 8.
अहमेव मतो महीपते
रिति सर्वः प्रकृतिष्वचिन्तयत् ।