________________
१६०
पाणिनिसूत्रव्याख्या
भट्टिकाव्ये - II. 50. विशङ्कटे वक्षसि बाणपाणिः
सम्पन्नतालद्वयसः पुरस्तात् । भीष्मो धनुष्मानुपजान्वर लि
रेति स्म रामं पथि जामदग्न्यः ॥ 626 ||
जानुनोः समीपमुपजानु । समीपार्थेऽव्ययीभावः ।
1
किरातार्जुनीये - VII. 26.
सम्भोगक्षमगहनामथोपग
बिभ्राणां ज्वलितमणीनि सैकतानि । अध्यषुश्च्युतकुसुमाचितां सहाया
वृत्रारेरविरलशाद्वलां धरित्रीम् ॥ 627 ||
गङ्गायाः समीपे उपगङ्गम् । अव्ययीभावस्य नपुंसकत्वाद्भस्वत्वम् ।
1
नैषधे --- III. 1.
आकुञ्चिताभ्यामथ पक्षतिभ्यां भोविभागात्तरसावती ।
निवेशदेशाततधूतपक्षः
पपात भूमापभैमि हंसः ॥ 628 ॥
भैम्याः समीपे उपभैमि । सामीप्येऽव्ययीभावः ।
माघे – VII. 24.
श्रुतिपथमधुराणि सारसाना - मनुनदि शुश्रविरे रुतानि ताभिः ।
विदधति जनतामनः शरव्य
व्यघपटुमन्मथचापनादशङ्काम् ॥ 629 ||
नद्याः समीपे अनुनदि । समीपार्थेऽव्ययीभावः । 'नदीपौर्णमास्या' (सू. 681) इति विकल्पान्न टच् ।