________________
अव्ययीभावसमासप्रकरणम्
१५९ अध्वनि अध्यध्वम् । विभक्तयर्थेऽव्ययीभावः । ' अनश्च' (सू. 678) इति समासान्तष्टच् । 'नस्तद्धिते' (सू. 679) इति टिलोपः ।
अस्मिन्नेव ग्रन्थे श्लो० 143. उपसीम । ग्रामसीमसु । विभक्तयर्थेऽव्ययीभावः । समासान्तविधेरनित्यत्वात् 'अनश्चेति (सू. 678) समासान्तष्टच न भवति । केचित्त 'अप्यन्येषां कठिनवपुषां दुर्गमे ग्रामसीनि' इत्यादौ नपुंसकप्रयोगदर्शनात् , 'नपुंसकादन्यतरस्याम् ' (सू. 680) इति विकल्पात्साधुरित्याहुः । माघ---VII. 1.
अनुगिरमृतुभिर्वितायमाना____ मथ स विलोकयितुं वनान्तलक्ष्मीम् । निरगमदमिराद्धमाहतानां
भवति महत्सु न निष्फल: प्रयासः ।। 623 ॥
गिरौ अनुगिरम् । विभक्त यर्थेऽव्ययीभावः । 'गिरेश्च सेनकस्य ' (सू. 683) इति समासान्तः ।
अस्मिन्नेव ग्रन्थे श्लो० 599. गिरावन्तर्गिरम् । विभक्तयर्थेऽव्ययीभावः ‘गिरेश्व' (सू. 683) इति समासान्तष्टच् । माधे-XII. 44.
लीलाचलस्त्रीचरणारुणोत्पल
स्खलतुलाकोटिनिनादकोमलः । शौरेरुपानूपमपाहरन्मनः
स्वनान्तरादुन्मदसारसारवः ॥ 624 ॥ अनूपा जलपायदेशास्तेषां समीपे उपानूपम् । समीपार्थेऽव्ययीभावः । भट्टिकाव्ये-VI. 106.
उपाग्नयकुरुतां सख्यमन्योन्यस्य प्रियङ्करौ ।
क्षेमकराणि कार्याणि पर्यालोचयतां ततः ॥ 625 ॥ अमे: समीपे उपानि । सामीप्येऽव्ययीभावः ।