________________
पाणिनिसूत्रव्याख्या
तत्संपर्क प्राप्य पुरा मोहनलीला
कामेकान्ते सा रसिका का कुरुते न ।। 619 ॥ वनान्तेऽनुवनान्तम् । विभक्तयर्थेऽव्ययीभावः । अस्मिन्नेव ग्रन्थे श्लो० 109. कर्णेऽधिकर्णम् । विभक्तयर्थेऽव्ययीभावः । अस्मिन्नेव ग्रन्थे श्लो० 146. पादेषु प्रतिपादम् । विभक्तयर्थेऽव्ययीभावः । माघे--- III. 71.
लक्ष्मीभृतोऽम्भोधितटाधिवासान्
द्रुमानसौ नीरदनीलभासः । लतावधूसंप्रयुजोऽधिवेलं
बहूकृतान् खानिव पश्यति स्म ।। 620 ।। वेलायामधिवेलम् । विभक्तयर्थेऽव्ययीभावः । माधे--XIII. 11.
गतया निरन्तरनिवासमध्युरः
परिनाभि नूनमवमुच्य वारिजम् । कुरुराजनिर्दयनिपीडनाभया
न्मुखमध्यरोहि मुरविद्विषः श्रिया ॥ 621 ॥ उरसि अध्युरः । नाभ्यां परिनाभि । विभक्तयर्थेऽव्ययीभावः । अस्मिन्नेव ग्रन्थे श्लो० 441, आत्मनि अध्यात्मम । विभक्त यर्थेऽव्ययीभावः ।
'अनश्व' (सू. 678..) इति समासान्तष्टच ।
माघ--XII. 30.
अध्यध्वमारूढवतेव केनचित्
प्रतीक्षमाणेन जन मुहुर्धतः । दाक्ष्य हि सद्यः फलदं यदग्रतः
श्वखाद दासेरयुवा वनावलीः ।। 622 ॥