________________
अव्ययीभावसमासाप्रकरणम्
भावे--XIV. 87.
धन्योऽसि यस्य हरिरेष समक्ष एका
दूरादपि ऋतुषु यज्वमिरिज्यते यः । दत्वाघमलभवते भुवनेषु याव
संसारमण्डलमवाप्नुहि साधुवादम् ।। 6300 अक्ष्णोः समीपे समक्षे । समीपार्थेऽव्ययीभावः । “ अव्ययीभावे शस्त । (लू. 677) इत्यादिना समासान्तः । 'तृतीयासप्तम्योबहुलम् (सू. 658) इति सन म; भमभावः ।
रघुवंशे-XV. 72
तात शुद्धा समदं नः स्नुषा ते जातवेदसि ।
दौरात्म्याक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः ।। 681. . अक्ष्णोः समीपे समक्षम् । पूर्ववत् । अलाम्भावः । नैषधे-III. 38.
संग्रामभूमीषु भवत्यरीणा
मस्त्रैर्नदीमातृकतां गतासु। तद्धाणधारापवनाशनानां
राजन नीगैरसुभिः सुभिक्षम् ।। 632 in भिक्षाणां समृद्धिः सुभिक्षम् । समृद्धावव्ययीभावः । नैषधे---III. 117.
नलेन भायाः शशिना निशेव
त्वया स भायानिशया शशीव । पुनः पुनस्तद्युगयुग्विधाता
स्वभ्यासमास्ते नु युवा युयुक्षुः ।। 633 !! अभ्यासस्य समृद्धिः स्वभ्यासम् । समृद्धावव्ययीभावः । विगता ऋद्धि: व्यृद्धिः । यवनानां व्युद्धिर्यवनम् ।