________________
पाणिनिसूत्रव्याख्या
नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यो स्तोऽधिकरणे।
मूलेनावाहयेद्देवी श्रवणेन विसर्जयेत् ।
मूले श्रवण इति वा । ' नक्षत्रेण युक्तः कालः' (सू. 204) इत्यण् । लुबबिशेषे' (सू. 1205 ) इति लुप् । 'लुपि युक्तवद्वयक्तिवचने' (सू. 1294) इति प्रकृतिलिङ्गवचने।
अस्मिन्नेव ग्रन्थे श्लो० 607. मधासु मघयुक्तकाले । लुबन्तान्नक्षत्रवाचकशब्दाद्वैकल्पिकी सप्तमी।
६४३ । सप्तमीपञ्चम्यौ कारकमध्ये (२. ३. ७)
शक्तिद्वयमध्ये यौ कालाध्वानौ ताभ्यामेते स्तः । अधिकशब्दयोगे सप्तमीपंचभ्याविष्यते । तदस्मिन्नधिक' (सू. 1846) इति — यस्मादधिक ' (सू. 645 ) इति च सूत्रनिर्देशात् । लोके लोकाद्वाधिको हरिः ।
अस्मिन्नेव ग्रन्थे श्लो० 819. पुंसा स्त्रिय इति कर्तृकर्मकारकमध्यवर्तित्वात् व्यहादिति पञ्चमी ।
अस्मिन्नेव ग्रन्थे श्लो० 320. त्वं मामिति कर्तृकर्मकारकमध्यगतत्वान्मास इति सप्तमी।
६४४ । अधिरीश्वरे । (१. ४. ९७) खखामिसम्बन्धोऽधिः कर्मप्रवचनीयसंज्ञः स्यात् । ६४५ । यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । (२. ३. ९)
अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् ।
भट्टिकाव्ये-VIII. 98.
अधि रामे पराक्रान्तमधिकर्ता स ते क्षयम् । इत्युक्ता मैथिली तूष्णीमासांचक्रे दशाननम् ।। 613 |