________________
कारकप्रकरणम्
१५३
माधे-~-IX. 2.
गतया पुरः प्रति गवाक्षमुख
दधती रतेन भृशमुत्सुकताम् । मुहुरन्तरालभुवमस्तगिरेः
सवितुश्च योषिदमिमीत दृशा ।। 608 ।। रतेन भृशमुत्सुकतां दधती । तृतीया ।
भट्टिकाव्ये-VII. 15.
विलोक्य द्योतन चन्द्रं लक्ष्मण शोचनोऽवदत् ।
पश्य दन्द्रमणान् हंसानरविन्दसमुत्सुकान् ।। 609 ॥ अरविन्देषु समुत्सुकान् । सप्तमीति योगविभागात्समासः । भट्टिकाव्ये--V. 24.
मामुपास्त दिदृक्षावान् याष्टीकव्याहतो हरिः ।
आज्ञालाभोत्सुको दुरात्काक्षेणानादरेक्षितः ॥ 610 ।। आज्ञालाभे उत्सुक इति पूर्ववत्समासः । भट्टिकाव्ये-V. 92.
अश्नीतपिबतीयन्ती प्रसिता स्मरकर्मणि ।
वशीकृत्य दशग्रीवं मोदस्व वरमन्दिरे ।। 611 ।। स्मरकर्मणि प्रसिता । सप्तमी । भट्टिकाव्ये-VI. 3.
न जिह्वयांचकाराथ सीतामभ्यर्थं तर्जितः ।
नाप्यूर्जा बिभरामास वैदेह्यां प्रसितो भृशम् ।। 612 ॥ वैदेह्यां प्रसितः । सप्तमी।
६४२ । नक्षत्रे च लुपि । (२. ३. ४५) 20