________________
पाणिनिसूत्रव्याख्या
रघुवंशे-XVIII. 53.
प्रतिकृतिरचनाभ्यो दृतिसन्दर्शिताभ्यः
समधिकतररूपाः शुद्धसन्तानकामैः । अधिविविदुरमात्यैराहृतास्तस्य यूनः
प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ।। 605 ॥ प्रतिकृतिरचनाभ्यः समधिकतररूपाः । पञ्चमी । अनर्घराघवे--- V. 37.
ग-अये प्रसन्नोज्वलाकृती कावेतौ । नियतमाभ्यामेकेन दानवनाथकालोक्षेपनिमित्तेन भवितव्यम् ॥ 606 ॥
आभ्यामेकेन।
६४० । साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः । ( २. ३. ४३)
आभ्यां योगे सप्तमी स्यादर्चायाम् । न तु प्रतेः प्रयोगे । मातरि साधुनिपुणो वा।
वा० । अप्रत्यादिभिरिति वक्तव्यम् । ( 1493.) साधुनिपुणो वा मातरं प्रति पर्यनु वा।
अस्मिन्नेव ग्रन्थे श्लो० 330. रक्षोविद्वत्सु साधून् । मारयितषु निपुणान् ।
६४१ । प्रसितोत्सुकाभ्यां तृतीया च । ( २. ३. ४४ ) आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको हरिणा हरौ वा । भट्टिकाव्ये--VIII. 117.
भवत्यामुत्सुको रामः प्रसितः सङ्गमेन ते ।
मघासु कृतनिर्वापः पितृभ्यो मां व्यसञ्जयत् ।। 607 ।। भवत्यामुत्सुकः त्वयि उत्कण्ठितः । ते संगमेन प्रसितः, संगतावासक्तः । तृतीयासप्तम्यौ ।