________________
कारकप्रकरणम्
१५१
स्त्रीषु मध्ये दर्शनीयतमाः । दर्शनीयतमत्वगुणेन पृथक्करणान्निर्धारणे सप्तमी ।
अस्मिन्नेव ग्रन्थे श्लो० 28. सर्वतेजस्सु सर्वतेजसां मध्ये ज्योतिष्टमाम् ।
सप्तमी ।
रघुवंशे - I. 59
अथाथर्वनिधेस्तस्य विजितारिपुर : पुरः ।
अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः । 602 ||
।
वदतां वक्तॄणां वरः श्रेष्ठः, निर्धारणे षष्ठी । 'न निर्धारण ' ( सू. 704 ) इति षष्ठीसमासप्रतिषेधः । निर्धारणे सप्तमीसमासस्तु स्यादेव ।
६३९ । पञ्चमी विभक्ते । ( २. ३.४२ )
विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः ।
अस्मिन्नेव ग्रन्थे श्लो० 601. भुजङ्गेभ्यो व्यालतमान्हिसान् । भुजङ्गेभ्यो राक्षसानां विभागात्पञ्चमी ।
अस्मिन्नेव ग्रन्थे श्लो० 586 इमां गां सुरभेः कामधेनोरनुनामहि ।
पञ्चमी ।
भट्टिकाव्ये - IV. 14.
आतिष्ठद् जपन्सन्ध्यां प्रकान्तामायतीगवम् ।
प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन्यविम् || 603 ॥
रामः पतत्रिभ्यः प्रातस्तरां प्रबुद्धः सन् । पतत्रिभ्य इति पञ्चमी ।
माघे — IV. 45.
या न ययौ प्रियमन्यवधूभ्य
स्सारतरागमना यतमानम् ।
तेन सह विभर्ति रस्त्री
सा रतरागमनायतमानम् || 604 || अन्यवधूभ्यः सारतरं आगमनं यस्याः सा । पञ्चमी ।