SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या भट्टिकाव्ये - VIII. 115. ईश्वरस्य निशाटानां विलोक्य निखिला पुरीम् । कुशलोऽन्वेषणस्याहमायुक्तो दुतकर्मणि ॥ 598 ।। निशाटानामीश्वरस्य निखिलां पुरी विलोक्य । निशाटानामिति षष्ठी ? अस्मिन्नेव ग्रन्थे श्लो० 536. मायानामीश्वराः । षष्ठी । भट्टिकाव्ये-V. 87. निर्लङ्को विमदः स्वामी धनानां हृलपुष्पकः । अध्यास्तेऽन्तगिरं यस्मात्कस्तं नावैति कारणम् ॥ 599 ।। धनानां स्वामी । षष्ठी। अनघराघवे-III. 25. यगोत्रस्य प्रथमपुरुषस्तेजसामीश्वरोऽयं __ येषां धर्मप्रवचनगुरुब्रह्मवादी वसिष्ठः । ये वर्तन्ते तव च हृदये सुष्ठुसंबन्धयोग्या स्ते राजानो मम पुनरसौ दारुणः शुरुकसेतुः ।। 600 ।। तेजसामीश्वरः । षष्ठी। ६३७ । अयुक्तकुशलभ्यां चासेवायाम् । (२. ३. ४०) आभ्यां योगे षष्ठीसप्तम्यौ स्तः तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने हरिपूजनस्य वा । ____ अस्मिन्नेव ग्रन्थे श्लो० 598. अन्वेषणस्य कुशलोऽन्वेषणे निपुणः । दूतकर्मण्यायुक्तो व्यापृतोऽहम् । षष्ठीसप्तम्यौ । ६३८ । यतश्च निर्धारणम् । (२. ३. ४१ ) ___ यतः जातिगुण क्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करण निर्धारण ततः षष्ठीसप्तम्यौ स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोपु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः । भट्टिकाव्य-VIII.116. दर्शनीयतमाः पश्यन् स्त्रीषु दिव्यास्वपि स्त्रियः । प्राप्तो व्याललमान्व्यस्यन् भुजङ्गेभ्योऽपि राक्षसान् ।। 601 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy