________________
ঠাৎ
नैषधे-1. 106.
लताबलालास्यकलागुरुस्तर
पसुनगन्धोत्करपश्यतोहरः। असेवता, मधुगन्धवारिणि
पणीतलीलाप्लवनो वनानिलः ॥ 594 ।। पश्यतोहरः । पश्यन्तमनादृत्य हरः । प्रसह्यापहर्तेत्यर्थः । अनादरे षष्ठी। 'वाग्दिग' (सू. 979 ) इत्यलुक् ।
माघे—XV. 34.
मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।
अस्य वनशुन इवापचितिः परिभाव एष भवतां भुवोऽधिपाः ।। 595 ।। भवतां मिषतां भवत्सु मिषत्सु । मिषतो युष्माननादृत्येत्यर्थः । माघे-XIII. 46.
अतियाति नः सतृष एष चक्षुषो
हरिरित्यखिद्यत नितम्बिनीजनः । न विवेद यः सततमेनमीक्षते
न वितृष्णतां ब्रजति खल्वसावपि ।। 596 ।। चक्षुषः सतृषः । चक्षुषि सतृषि सति । तदनादृत्येत्यर्थः । ६३६ । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च । (२. ३. ३९)
एतैः सप्तभियोगे षष्ठीसप्तम्यौ स्तः । गवां गोषु वा स्वामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः । भट्रिकाव्ये-VIII. 114.
वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा ।
जातो रामस्य सुग्रीवस्ततो दूतोऽहमागतः ।। 597 ।। वानरेषु स्वामी । वानराणामीश्वरः । नरेपधिपतेः नराणामिन्द्रस्य । विकल्पात्सप्तमी।