________________
पाणिनिसूनव्याख्या चर्मणि द्वीपिनं हन्ति दन्तयोहन्ति कुञ्जरम् । केशेषु चमरौं हन्ति सीम्नि पुष्कलको हतः ।। ( इति भाष्यम् )
रघुवंश....XIII. 43.
एषोऽक्षमालावलय मृगाणां
कण्डूयितारं कुशसूचिलावम् । सभाजने मे भुजमूर्ध्वबाहुः
सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥ 591 il एष दक्षिणं भुजं मे समाजने संमानननिमित्ते । सप्तमी ।
६३४ । यस्य च भावेन भावलक्षणम् । ( २. ३. ३७) यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ।
भट्टिकाव्ये-VIII. 112.
असंप्राप्त दशग्रीवे प्रविष्टोऽहमिदं वनम् । तस्मिन्प्रतिगते द्रष्टुं त्वामुपाक्रस्यचेतितः ॥ 592 ।।
दशग्रीवेऽसंप्राप्ते सति अहमिदं वन प्रविष्टः । तस्मिन्प्रतिगते सति त्वां द्रष्टमुपाक्रसि ।
६३५ । षष्ठी चानादरे । ( ३. ३. ३८.)
अनादरे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्रावाजीत् । रुदन्तं पुत्रादिकमनादृत्य सन्यस्तवानित्यर्थः । भट्टिकाव्ये-VIII. 113.
तस्मिन्वदति रुष्टोऽपि नाकार्ष देवि विक्रमम् ।
अविनाशाय कार्यस्य विचिन्वानः परापरम् ।। 593 ॥ तस्मिन्वदति रुष्टोऽपि विक्रमं नाकार्षम् । तं तथा वदन्तमनादृत्य विक्रम नाकार्षमित्यर्थः ।