________________
জাহা
अधि रामे स्वामिनि, पराक्रान्तं पराक्रमः । संवर्तत इति शेषः । रामपशकमयोः स्वस्वामिभावसंबन्धे द्योत्ये अधेः कर्मप्रवचनीयत्वे द्वितीयापवादेन सप्तमी।
उपोऽधिके च (सू. 551 ) अस्मिन्नेव ग्रन्थे श्लो० 293. उप शुरेषु शूरेभ्योऽधिकः । सप्तमी।
६४६ । विभाषा कृषि । (१. ४. ९८ ) अस्मिन्नेव ग्रन्थे श्लो० 613. रामस्ते क्षयं नाशं अधिकर्ता करिष्यति संज्ञाभावपक्षे कर्मणि द्वितीया ।
॥ इति कारकप्रकरण समाप्तम् ॥