________________
पाणिनिसूत्रव्याख्या
उपदेशपराः परेष्वपि
स्वविनाशाभिमुखेषु साघवः ॥ 584 || तुभ्यमेव कुशलम् । वैकल्पिकी चतुर्थी। चम्पूरामायणे- V. 26.
ग-तदनन्तरं समन्तात्परिसारितनयना जनकननया तस्यां शाखायां शाखामृगमुद्रीक्ष्य दुःस्वप्मबुद्धया चकितहृदया सलक्ष्मणाय रामाय भर्ने भद्रमाशंसमाना जनमिमं दुरापस्वापं स्वप्नः कथमाप्नुयादिति विचिन्य मायया समायातो नैर्ऋत इति बुद्ध्या तस्मान्मारुतपुत्रात्तत्रास ! 585. रामाय चतुर्थी । भद्रम् । .
६३२ । आधारोऽधिकरणम् । (१. ४. ४५)
आधारोऽधिकरणसंज्ञः स्यात् ।
६३३ । सप्तम्यधिकरणे च । (२. ३. ३६) अधिकरणे सप्तमी स्यात् । चकाराद्र्रान्तिकार्थेभ्य. : अस्मिन्नेव ग्रन्थे श्लो० 270. मया साकं सौधे, सप्तमी, आस्स्व । अस्मिन्नेव ग्रन्थे श्लो० 444. समुद्रस्य नानभ्याशे । सप्तमी । रघुवंशे-II. 4.
कथं नु शक्योऽनुनयो महर्षेर्विश्राणनादन्यायस्विनीनाम् ।
इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयास्याम् ॥ 586 ॥ अस्यां सप्तमी। भट्टिकाव्ये -V. 42.
चिरकालोषितं जीण कीटनिष्कुषितं धनुः ।
किं चित्रं यदि रामेण भग्नं क्षत्रियकान्तिके ।। 587 ।। अन्तिके इति सप्तमी।